प्रथमः पाठः मङ्गलम [ उपनिषदः वैदिकवाड्मयस्य अन्तिमे भागे दर्शनशास्त्रस्य सिद्धान्तान् प्रकटयन्ति। सर्वत्र परमपुरुषस्य परमात्पनः महिमा प्रधान गीयते। तेन परमात्मना जगत् व्याप्तमनुशासितं चास्ति। स एवं सर्वेषां तपसां परं लक्ष्यं। अस्मिन पाठे परमात्मपरा उपनिषदां पद्यात्मकाः पञ्च मन्त्राः संकलिताः सन्तिा] हिरण्मयेन पात्रेण सत्यस्यापिहित मुखम् । तस्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ (ईशावास्य०) अणोरणीयान् महतो महीयान् आत्मास्य जन्तोर्निहितो गुहायाम् तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ (ईशावास्य० 15 ) सत्यमेव जयते नानृतं , ...